दे॒शबन्धश्चित्तस्य॑ धार॒णा ॥ ३.१॥
त॒त्र प्रत्ययैकतान॑ता ध्या॒नम् ॥ ३.२॥
त॒दे॒वा॒र्थमा॒त्रनि॒र्भा॒सं स्व॒रूपशून्यमिव॑ समा॒धिः ॥ ३.३॥
त्रयमेकत्र॑ संय॒मः ॥ ३.४॥
तज्ज॒यात्प्र॑ज्ञालो॒कः ॥ ३.५॥
तस्य भूमि॑षु वि॒नि॒योगः ॥ ३.६॥
त्र॒यमन्तरङ्गं॑ पूर्वे॒भ्यः ॥ ३.७॥
त॒द॒पि ब॒हि॒र॒ङ्गं नि॑र्बीज॒स्य ॥ ३.८॥
व्यु॒त्थाननि॒रो॒धसं॒स्कार॒योर॒भि॒भ॒वप्रा॑दुर्भा॒वौनि॒रो॒धक्षणचि॒त्तान्व॒यो निरोधप॑रिणा॒मः ॥ ३.९॥
तस्य प्र॒शान्तवाहिता॑ संस्का॒रात् ॥ ३.१०॥
स॒र्वार्थतै॒काग्र॒त॒योः क्ष॒यो॒द॒यौ चि॒त्तस्य स॒माधिप॑रिणा॒मः ॥ ३.११॥
त॒तः पु॒नः शा॒न्तोदि॒तौ तु॒ल्यप्र॒त्य॒यौ चि॒त्तस्यैकाग्रताप॑रिणा॒मः ॥ ३.१२॥
ए॒तेन भू॒तेन्द्रियेषु ध॒र्मल॒क्ष॒णा॒व॒स्थाप॒रि॒णा॒मा व्या॑ख्या॒ताः ॥ ३.१३॥
शा॒न्तो॒दि॒ता॒व्य॒प॒देश्यधर्मानुपा॑ती ध॒र्मी ॥ ३.१४॥
क्रमान्यत्वं परिणामान्य॑त्वे हे॒तुः ॥ ३.१५॥
प॒रि॒णा॒म॒त्र॒य॒सं॒य॒माद् अतीतानाग॑तज्ञा॒नम् ॥ ३.१६॥
श॒ब्दार्थप्र॒त्य॒या॒नामि॒त॒रेत॒राध्या॒सात्सङ्करस्तत्प्र॒वि॒भागसं॒य॒मात्सर्वभूतरु॑तज्ञा॒नम् ॥ ३.१७॥
सं॒स्कारसा॒क्षात्क॒र॒णात्पूर्वजा॑तिज्ञा॒नम् ॥ ३.१८॥
प्र॒त्ययस्य परचि॑त्तज्ञा॒नम् ॥ ३.१९॥
न॒ च तत्सा॒लम्ब॒नं तस्याविषयी॑भूत॒त्वात् ॥ ३.२०॥
का॒यरू॒पसं॒य॒मात्तद्ग्रा॒ह्यश॒क्तिस्त॒म्भेच॒क्षुःप्र॒का॒शास॒म्प्रयो॒गेऽ॑न्तर्धा॒नम् ॥ ३.२१॥
सो॒पक्र॒मं नि॒रु॒पक्र॒मं च कर्मतत्सं॒य॒माद॒प॒रा॒न्तज्ञा॒नमरि॑ष्टेभ्यो॒ वा ॥ ३.२२॥
मैत्र्यादि॑षु ब॒ला॒नि ॥ ३.२३॥
बलेषु हस्तिब॑लादी॒नि ॥ ३.२४॥
प्र॒वृ॒त्त्यालो॒कन्या॒सात्सूक्ष्मव्यवहितविप्रकृ॑ष्टज्ञा॒नम् ॥ ३.२५॥
भुवनज्ञानं सूर्ये॑ संय॒मात् ॥ ३.२६॥
चन्द्रे ताराव्यू॑हज्ञा॒नम् ॥ ३.२७॥
ध्रुवे तद्ग॑तिज्ञा॒नम् ॥ ३.२८॥
नाभिचक्रे कायव्यू॑हज्ञा॒नम् ॥ ३.२९॥
कण्ठकूपे क्षुत्पिपासा॑निवृ॒त्तिः ॥ ३.३०॥
कू॒र्मना॒ड्यां स्थै॒र्यम् ॥ ३.३१॥
मूर्धज्योतिषि सिद्ध॑दर्श॒नम् ॥ ३.३२॥
प्रा॒तिभा॒द्वा स॒र्वम् ॥ ३.३३॥
हृ॒द॒ये चि॑त्तसं॒वित् ॥ ३.३४॥
स॒त्त्वपु॒रु॒ष॒योर॒त्य॒न्तास॒ङ्कीर्ण॒योः प्र॒त्य॒यावि॒शे॒षो भोगःप॒रा॒र्थ॒त्वात्स्वा॒र्थसं॒य॒मात्पुरु॑षज्ञा॒नम् ॥ ३.३५॥
त॒तः प्रा॒तिभश्रा॒वणवे॒दना॒दर्शास्वादवार्ता॑ जाय॒न्ते ॥ ३.३६॥
ते स॒मा॒धावु॑पस॒र्गा व्युत्थाने॑ सिद्धयः ॥ ३.३७॥
ब॒न्ध॒का॒रणशै॒थि॒ल्यात्प्र॒चा॒रसं॒वेद॒नाच्चचि॒त्तस्य परशरी॑रावे॒शः ॥ ३.३८॥
उ॒दा॒नज॒याज्जलप॒ङ्कक॒ण्ट॒कादिष्व॒स॒ङ्ग उ॑त्क्रान्ति॒श्च ॥ ३.३९॥
समानज॑याज्ज्व॒ल॒नम् ॥ ३.४०॥ (समानजयात्प्रज्वलनम्)
श्रो॒त्राका॒श॒योः स॒म्ब॒न्धसं॒य॒माद्दिव्यं श्रो॒त्रम् ॥ ३.४१॥
का॒याका॒श॒योः स॒म्ब॒न्धसं॒य॒माल्ल॒घुतूल-स॒मा॒प॒त्तेश्चाका॑शग॒म॒नम् ॥ ३.४२॥
ब॒हि॒र॒क॒ल्पि॒ता वृत्तिर्म॒हा॒वि॒दे॒हा ततः प्र॒का॒शावरणक्षयः ॥ ३.४३॥
स्थू॒लस्व॒रू॒पसू॒क्ष्मा॒न्वया॒र्थ॒व॒त्त्वसं॒य॒माद्भू॑तज॒यः ॥ ३.४४॥
त॒तो॒ऽणि॒मादिप्रादुर्भावः का॒यस॒म्पत्त॒द्ध॒र्मानभि॑घात॒श्च ॥ ३.४५॥
रू॒पला॒वण्यबलव॒ज्रसं॒ह॒न॒न॒त्वानि का॑यस॒म्पत् ॥ ३.४६॥
ग्र॒ह॒णस्व॒रू॒पा॒स्मि॒ता॒न्वया॒र्थ॒व॒त्त्वसं॒य॒मादिन्द्रि॑यज॒यः ॥ ३.४७॥
त॒तो॒ म॒नो॒ज॒वि॒त्वं विकरणभावः प्रधान॑जय॒श्च ॥ ३.४८॥
स॒त्त्वपु॒रु॒षा॒न्य॒ताख्या॒तिमा॒त्रस्य स॒र्वभा॒वाधि॒ष्ठातृ॒त्वंसर्वज्ञा॑तृत्वं॒ च ॥ ३.४९॥
तद्वै॒राग्यादपि दोषबीजक्षये॑ कैव॒ल्यम् ॥ ३.५०॥
स्था॒न्यु॒प॒नि॒म॒न्त्र॒णे स॒ङ्गस्म॒याक॒र॒णं पुनरनिष्ट॑प्रस॒ङ्गात् ॥ ३.५१॥
क्ष॒णतत्क्र॒म॒योः सं॒य॒माद्विवेक॑जं ज्ञा॒नम् ॥ ३.५२॥
जा॒ति॒ल॒क्षणदे॒शैर॒न्य॒तान॒व॒च्छे॒दात् तु॒ल्य॒योस्त॒तः प्र॑तिप॒त्तिः ॥ ३.५३॥
ता॒र॒कं स॒र्ववि॒ष॒यं सर्वथा॑विष॒यम॒क्र॒मञ्चेति विवेक॑जं ज्ञा॒नम् ॥ ३.५४॥
स॒त्त्वपु॒रु॒ष॒योः शु॒द्धिसाम्ये॑ कैव॒ल्यमिति ॥ ३.५५॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे तृतीयो विभू॑ति-पा॒दः ॥