त॒पः॒स्वा॒ध्यायेश्वरप्रणिधानानि क्रि॑यायो॒गः ॥ २.१॥
स॒मा॒धिभा॒वनार्थः क्ले॒शत॒नू॒क॒र॒णा॒र्थश्च ॥ २.२॥
अ॒वि॒द्या॒स्मि॒तारा॒गद्वे॒षा॒भि॒नि॒वे॒शाः क्ले॒शाः ॥ २.३॥
अ॒वि॒द्या क्षे॒त्रमु॑त्तरे॒षां प्र॒सु॒प्तत॒नुवि॒च्छि॒न्नो॑दारा॒णाम् ॥ २.४॥
अ॒नि॒त्या॒शु॒चिदुः॒खा॒ना॒त्मसु नि॒त्यशु॒चिसु॒खात्मख्याति॑र॒वि॒द्या ॥ २.५॥
दृ॒ग्द॒र्शनश॒क्त्योरे॒का॒त्म॒तेवा॑स्मि॒ता ॥ २.६॥
सु॒खा॒नुश॒यी रागः ॥ २.७॥
दुः॒खा॒नुश॒यी द्वेषः ॥ २.८॥
स्व॒र॒सवा॒ही वि॒दु॒षोऽपि त॒था॒रूढोऽ॒भि॒नि॒वेशः ॥ २.९॥
ते प्र॒तिप्र॒स॒वहे॒याः सू॒क्ष्माः ॥ २.१०॥
ध्या॒नहे॒यास्तद्वृत्तयः ॥ २.११॥
क्ले॒शमू॒लः क॒र्मा॒श॒यो दृ॒ष्टादृष्टजन्मवे॑दनी॒यः ॥ २.१२॥
स॑ति मू॒ले त॑द्विपा॒को जात्या॑युर्भो॒गाः ॥ २.१३॥
ते ह्ला॒दप॒रि॒ताप॑फ॒लाः पुण्यापुण्यहे॑तु॒त्वात् ॥ २.१४॥
प॒रि॒णामतापसं॒स्कार॑दुः॒खैर्गु॒णवृ॒त्तिवि॒रो॒धाच्चदुः॒खमेव सर्वं॑ विवे॒किनः ॥ २.१५॥
हे॒यं दुः॒खम॑नाग॒तम् ॥ २.१६॥
द्र॒ष्टृ॒दृश्य॒योः सं॒यो॒गो हे॑यहे॒तुः ॥ २.१७॥
प्र॒का॒शक्रि॒यास्थि॑तिशी॒लं भू॒तेन्द्रियात्म॒कंभो॒गापवर्गा॒र्थं दृ॒श्यम् ॥ २.१८॥
वि॒शे॒षाविशेषलि॒ङ्ग॒मा॒त्रालिङ्गानि गुण॑पर्वा॒णि ॥ २.१९॥
द्र॒ष्टा दृ॑शिमा॒त्रः शु॒द्धोऽपि प्र॒त्यया॑नुप॒श्यः ॥ २.२०॥
त॒द॒र्थ ए॒व दृ॑श्यस्या॒त्मा ॥ २.२१॥
कृ॒ता॒र्थं प्र॑ति न॒ष्टमप्य॒न॒ष्टं तदन्यसाधा॑रण॒त्वात् ॥ २.२२॥
स्वस्वा॒मिश॒क्त्योः स्व॒रू॒पोपलब्धिहेतुः सं॒योगः ॥ २.२३॥
त॒स्य हेतु॑र॒वि॒द्या ॥ २.२४॥
त॒द॒भा॒वात् सं॒यो॒गाभा॒वो हा॒नं तद्दृशेः᳚ कैव॒ल्यम् ॥ २.२५॥
वि॒वे॒कख्यातिर॒वि॒प्ल॒वा हा॑नोपा॒यः ॥ २.२६॥
त॒स्य स॒प्त॒धा प्रान्तभूमिः॑ प्र॒ज्ञा ॥ २.२७॥
योगाङ्गानु॑ष्ठा॒नाद॒शु॒द्धिक्ष॒ये ज्ञा॒नदी॒प्तिरा विवेक॑ख्या॒तेः ॥ २.२८॥
य॒मनि॒य॒मा॒सनप्रा॒णायामप्र॒त्या॒हारधा॒र॒णाध्या॒नस॒मा॒धयोऽष्टा॑वङ्गा॒नि ॥ २.२९॥
अ॒हिं॒सास॒त्या॒स्ते॒यब्र॒ह्म॒चर्या॒प॒रि॒ग्र॒हा य॒माः ॥ २.३०॥
जा॒तिदे॒शका॒लस॒म॒या॒न॒व॒च्छि॒न्नाः सा॒र्वभौ॒मा म॑हाव्र॒तम् ॥ २.३१॥
शौ॒चस॒न्तोषतपःस्वा॒ध्यायेश्वरप्रणिधानानि॑ निय॒माः ॥ २.३२॥
वि॒त॒र्कबा॒ध॒ने प्रतिपक्ष॑भाव॒नम् ॥ २.३३॥
वि॒त॒र्का हिं॒सादयः कृ॒तका॒रि॒ता॒नु॒मो॒दि॒ता लो॒भक्रो॒धमो॒हपू॒र्व॒कामृ॒दुम॒ध्या॒धि॒मा॒त्रा दुः॒खा॒ज्ञा॒ना॒न॒न्तफ॒ला इति प्र॒तिपक्ष॑भाव॒नम् ॥ २.३४॥
अ॒हिं॒साप्र॑तिष्ठा॒यां तत्स॒न्नि॒धौ वै॑रत्या॒गः ॥ २.३५॥
स॒त्यप्र॑तिष्ठा॒यां क्रि॒याफला॑श्रय॒त्वम् ॥ २.३६॥
अ॒स्ते॒यप्र॑तिष्ठा॒यां सर्वरत्नो॑पस्था॒नम् ॥ २.३७॥
ब्र॒ह्म॒च॒र्यप्र॑तिष्ठा॒यां वी॑र्यला॒भः ॥ २.३८॥
अप॒रि॒ग्र॒ह॒स्थै॒र्ये ज॒न्मक॒थ॒न्तासम्बोधः ॥ २.३९॥
शौ॒चात् स्वा॒ङ्गजु॒गु॒प्सा प॒रैर॑संस॒र्गः ॥ २.४०॥
स॒त्त्वशु॒द्धिसौ॒मनस्यै॒काग्र्येन्॒द्रियजया॒त्मदर्शनयोग्य॑त्वानि॒ च ॥ २.४१॥
स॒न्तो॒षादनुत्तमसु॑खला॒भः ॥ २.४२॥
का॒येन्द्रियसिद्धिर॒शु॒द्धिक्ष॒यात् तपसः ॥ २.४३॥
स्वा॒ध्या॒याद् इ॒ष्टदे॒व॒तासम्प्रयोगः ॥ २.४४॥
स॒मा॒धिसि॒द्धिरीश्वरप्र॑णिधा॒नात् ॥ २.४५॥
स्थिरसुख॑म् आस॒नम् ॥ २.४६॥
प्र॒य॒त्नशैथिल्यानन्तस॑माप॒त्ति॒भ्याम् ॥ २.४७॥
ततो द्व॒न्द्वान॑भिघा॒तः ॥ २.४८॥
त॒स्मिन्सति श्वा॒सप्र॒श्वा॒स॒योर्ग॒ति॒वि॒च्छेदः प्रा॑णाया॒मः ॥ २.४९॥
बा॒ह्या॒भ्यन्तरस्त॒म्भवृ॒त्तिर्दे॒शका॒लस॒ङ्ख्याभिःप॒रि॒दृ॒ष्टो दी॑र्घसू॒क्ष्मः ॥ २.५०॥
बा॒ह्या॒भ्यन्तरवि॒ष॒या॒क्षे॒पी चतुर्थः ॥ २.५१॥
त॒तः॒ क्षी॒य॒ते प्रकाशा॑वर॒णम् ॥ २.५२॥
धा॒र॒णासु च योग्यता॑ मन॒सः ॥ २.५३॥
स्ववि॒ष॒या॒स॒म्प्रयो॒गे चि॒त्त॒स्व॒रूपानुकार॑ इ॒वे॒न्द्रि॒या॒णां प्र॑त्याहा॒रः ॥ २.५४॥
त॒तः॒ प॒र॒मा वश्यते॑न्द्रिया॒णाम् ॥ २.५५॥
॥ इति पतञ्जलि-विरचिते योग-सूत्रे द्वितीयः साध॑न-पा॒दः ॥