মূল লেখায় যান

← महर्षि पतञ्जलि

योगसूत्र

पातञ्जलयोगसूत्राणि कैव॑ल्य-पा॒दः – चतुर्थोऽध्यायः

ज॒न्मौ॒षधिम॒न्त्रत॒पःस॒मा॒धि॒जाः सि॒द्धयः॑ ॥ ४.१॥

जा॒त्यन्तरपरिणामः प्रकृ॑त्यापू॒रात् ॥ ४.२॥

नि॒मि॒त्त॒म॒प्र॒यो॒ज॒कं प्र॒कृ॒ती॒नां वरणभेदस्तुत॒तः क्षेत्रि॑क॒वत् ॥ ४.३॥

नि॒र्माणचि॒त्तान्यस्मि॑तामा॒त्रात् ॥ ४.४॥

प्र॒वृ॒त्तिभे॒दे प्र॒योज॒कं चित्तमेकम॑नेके॒षाम् ॥ ४.५॥

त॒त्र ध्या॒न॒जम॑नाश॒यम् ॥ ४.६॥

क॒र्माशु॒क्लाकृ॒ष्णं योगिनस्त्रिविधमि॑तरे॒षाम् ॥ ४.७॥

त॒तस्तद्वि॒पा॒कानुगु॒णा॒नामेवा॒भि॒व्यक्तिर्वा॑सना॒नाम् ॥ ४.८॥

जा॒तिदे॒शका॒लव्य॒व॒हि॒ता॒नामप्या॒नन्त॒र्यंस्मृ॒तिसं॒स्कार॒योरेक॑रूप॒त्वात् ॥ ४.९॥

ता॒साम॒ना॒दि॒त्वं चाशिषो॑ नित्य॒त्वात् ॥ ४.१०॥

हे॒तुफ॒ला॒श्रया॒लम्ब॒नैः स॒ङ्गृ॒ही॒त॒त्वादे॒षाम॒भा॒वे त॑दभा॒वः ॥ ४.११॥

अ॒ती॒तानागतं स्व॒रू॒पतोऽ॒स्त्य॒ध्वभेदा॑द्धर्मा॒णाम् ॥ ४.१२॥

ते व्य॒क्तसू॒क्ष्मा गु॑णात्मा॒नः ॥ ४.१३॥

प॒रि॒णा॒मै॒क॒त्वाद्व॑स्तुत॒त्त्वम् ॥ ४.१४॥

व॒स्तुसा॒म्ये चि॒त्तभे॒दात्त॒योर्विभ॑क्तः प॒न्थाः ॥ ४.१५॥

न चै॒कचि॒त्त॒त॒न्त्रं वस्तु तद॒प्र॒मा॒ण॒कं त॑दा किं॒ स्यात् ॥ ४.१६॥

तदु॒प॒रा॒गापे॒क्षि॒त्वाच्चि॒त्त॒स्य व॒स्तु ज्ञा॑ताज्ञा॒तम् ॥ ४.१७॥

स॒दा ज्ञा॒ताश्चि॒त्तवृत्तयस्तत्प्र॒भोः पुरुषस्यापरि॑णामि॒त्वात् ॥ ४.१८॥

न तत्स्वाभासं॑ दृश्य॒त्वात् ॥ ४.१९॥

एकसमये चोभयानव॑धार॒णम् ॥ ४.२०॥

चि॒त्ता॒न्तरदृ॒श्ये बु॒द्धिबु॒द्धेर॒ति॒प्रसङ्गः स्मृ॒तिस॑ङ्कर॒श्च ॥ ४.२१॥

चि॒तेर॒प्र॒ति॒स॒ङ्क्र॒मा॒यास्त॒दा॒का॒राप॒त्तौ स्वबुद्धिसं॑वेद॒नम् ॥ ४.२२॥

द्र॒ष्टृदृ॒श्यो॒प॒र॒क्तं चित्तं॑ सर्वा॒र्थम् ॥ ४.२३॥

त॒द॒स॒ङ्ख्येयवा॒सनाभिश्चि॒त्र॒म॒पि प॒रा॒र्थं संहत्य॑कारि॒त्वात् ॥ ४.२४॥

वि॒शे॒षदर्शिन आत्मभावभावना॑विनिवृ॒त्तिः ॥ ४.२५॥

त॒दा वि॒वे॒कनि॒म्नं कैवल्यप्राग्भा॑रं चि॒त्तम् ॥ ४.२६॥

तच्छि॒द्रेषु प्रत्ययान्तराणि सं॑स्कारे॒भ्यः ॥ ४.२७॥

हा॒नमे॒षां क्लेश॑वदु॒क्तम् ॥ ४.२८॥

प्र॒स॒ङ्ख्या॒नेऽप्यकुसीदस्य स॒र्व॒थावि॒वे॒कख्या॒तेर्धर्ममेघः॑ समा॒धिः ॥ ४.२९॥

त॒तः क्लेशकर्म॑निवृ॒त्तिः ॥ ४.३०॥

त॒दा सर्वावरणम॒ला॒पेतस्य ज्ञा॒नस्या॒न॒न्त्याज्ज्ञे॑यम॒ल्पम् ॥ ४.३१॥

त॒तः कृ॒ता॒र्था॒नां परिणामक्रमसमाप्ति॑र्गुणा॒नाम् ॥ ४.३२॥

क्ष॒ण॒प्र॒ति॒यो॒गी प॒रि॒णा॒मापरान्तनिर्ग्रा॑ह्यः क्र॒मः ॥ ४.३३॥

पु॒रु॒षार्थशू॒न्या॒नां गु॒णा॒नां प्रतिप्रसवः कै॒व॒ल्यंस्व॒रू॒पप्र॒ति॒ष्ठा॒ वा चि॒तिश॑क्तिरि॒ति ॥ ४.३४॥

॥ इति पतञ्जलि-विरचिते योग-सूत्रे चतुर्थः कैव॑ल्य-पा॒दः ॥

॥ इति श्री पातञ्जल-योग-सूत्राणि ॥

Manuscript, source and citation

Cite this poem

Copy a ready-made citation, or adapt it to your style guide. A translation is cited by its own page.

MLA 9 Maharishi Patanjali. “पातञ्जलयोगसूत्राणि कैव॑ल्य-पा॒दः – चतुर्थोऽध्यायः.” Mansarovar Sahitya, https://www.mansarovarsahitya.in/poems/%e0%a4%aa%e0%a4%be%e0%a4%a4%e0%a4%9e%e0%a5%8d%e0%a4%9c%e0%a4%b2%e0%a4%af%e0%a5%8b%e0%a4%97%e0%a4%b8%e0%a5%82%e0%a4%a4%e0%a5%8d%e0%a4%b0%e0%a4%be%e0%a4%a3%e0%a4%bf-%e0%a4%95%e0%a5%88%e0%a4%b5%e0%a5%91/. Accessed 13 Oct. 2026.
Chicago 17 Maharishi Patanjali. “पातञ्जलयोगसूत्राणि कैव॑ल्य-पा॒दः – चतुर्थोऽध्यायः.” Mansarovar Sahitya. Accessed October 13, 2026. https://www.mansarovarsahitya.in/poems/%e0%a4%aa%e0%a4%be%e0%a4%a4%e0%a4%9e%e0%a5%8d%e0%a4%9c%e0%a4%b2%e0%a4%af%e0%a5%8b%e0%a4%97%e0%a4%b8%e0%a5%82%e0%a4%a4%e0%a5%8d%e0%a4%b0%e0%a4%be%e0%a4%a3%e0%a4%bf-%e0%a4%95%e0%a5%88%e0%a4%b5%e0%a5%91/.
Reference महर्षि पतञ्जलि। «पातञ्जलयोगसूत्राणि कैव॑ल्य-पा॒दः – चतुर्थोऽध्यायः»। Mansarovar Sahitya, https://www.mansarovarsahitya.in/poems/%e0%a4%aa%e0%a4%be%e0%a4%a4%e0%a4%9e%e0%a5%8d%e0%a4%9c%e0%a4%b2%e0%a4%af%e0%a5%8b%e0%a4%97%e0%a4%b8%e0%a5%82%e0%a4%a4%e0%a5%8d%e0%a4%b0%e0%a4%be%e0%a4%a3%e0%a4%bf-%e0%a4%95%e0%a5%88%e0%a4%b5%e0%a5%91/।

More by महर्षि पतञ्जलि

Suggest a correction